________________
मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः। १४॥ रथिका पञ्चभागा स्याद द्विभाग सलिलान्तरम् । (कूट!)त्रिभागं पञ्जरं कुर्यात् प्राग्नीवकविभूषितम् ॥ ३८ ॥ जलान्तरं द्वितीयं तु तदपि स्याद् द्विभागिकम् । शालैकादशभागा तु पूर्ववत् सलिलान्तरम् ॥ ३९ ॥ त्रिभागं पञ्जरं कुर्याद द्विभागं सलिलान्तरम् ।। कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्वयं विधिः ॥ ४०॥ नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके । जङ्घा सपीठा क्षेत्राधेविस्तारसदृशोदया ।। ४१ ॥ सार्धेर्द्वितीया दशभिस्तृतीया नवभिः करैः । अष्टहस्ता चतुर्थी स्यात् सप्तहस्ता तु पञ्चमी ॥ ४२ ॥ षष्ठी तु भूमिका कार्या प्रमाणेनास्य पदकरा । सप्तमी पञ्चहस्ता तु (चतु)हेस्ता ततोऽष्टमी ॥ ४३ ॥ त्रिहस्तं वेदिकावन्धं विचित्रं कारयेद् बुधः । विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं (वेदिकावन्ध?) ॥ ४४ ॥ स्कन्धादुर्ध्व भवेद घण्टा यदि वामलसारकम् । तद् वर्तुलं शुभं कार्य घण्टा स्कन्धाधमुच्छिता ॥ ४५ ।। घण्टाविस्तार(तः) कुम्भं चतुर्थांशन कारयेत् । प्रमाणं समुदायेन भूमिकानामुदाहातानम्) । ४६ ।। एकैक(स्या?स्य)विशेषण प्रविविच्याधुनोच्यते । प्रमाणेन विधातव्या (खकारा? भूमिरणिका ।। ४७ ॥ (यं हस्तं तु?) खुरकं द्विभागा पद्मपत्रिका । भागिका (कणकयास्थ्यशं?) कुमुदं छेद एव च ।। ४८ ।। त्र्यंशस्तद्विगुणः कण्ठः किङ्किणीपल्लवान्वितः । तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका ।। ४९ ॥ (भाव्यंशावरण्डीतमध्ये पच्छीतलार्थभागिकी) । पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥ ५० ॥
"Aho Shrut Gyanam