________________
मेदिविशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । १७१ षोडशाश्रिः समन्ताच विज्ञेयः स समुद्रकः । पार्श्वयोश्चन्द्रशाला च उच्छ्रायात् स द्विभूमिकः ।। १२ ॥ तथाष्टाश्रिः पद्मनिभो भूमिकात्रयमुच्छ्रितः । षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ।। १३ ॥ मृगराजस्तु विख्यातश्चन्द्रशालाविभूषितः । प्राग्ग्रीवेण विशालेन भूमिका(स यदु?सु य उचितः ।। १४ ।। अनेकचन्द्रशालस्तु गजः प्रासाद उच्यते । पर्यस्तो मृगराजस्तु गरुडो नाम नामतः ॥ १५ ॥ सप्तभूम्युच्छ्रितस्तद्वञ्चन्द्रशालात्रयान्वितः । अश्रिभि(विहरं तस्यः) पद्भिर्युक्तः समन्ततः ॥ १६ ॥ स्यादन्यो गरुडस्तद्वदच्छाये दशभूमिकः । पद्मकः षोडशाश्रिः स्याद् भूमिकाद्वितयाधिकः ॥ १७ ॥ पद्मतुल्यप्राणन(?)वावृक्षश्चतुरश्रकः । पञ्चाण्ड(मे?ए कभूमिस्तु गर्भो) हस्तचतुष्टयम् ॥ १८ ॥ वृषो भवति ना(त्रीय प्रासादः सर्वकामिकः । सप्तकापश्चकाभूमिप्रासादो(?)य इहोदिताः ।। १९ ।। (हिंस्य)ते समा ज्ञेया ये चान्ये तत्प्रमाणकाः । विचित्रशिखराः कायोश्चन्द्रशालाविभूषिताः ॥ २० ॥ सर्वे प्राग्नीवसंयुक्ताः कर्तव्यास्तोरणान्विताः । ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥ २१ ॥ स्यात् पञ्चाशत्करान्मेरुमूत्रलिङ्गं नवोदयान् (१) । गभोस्तु द्विगुणा लिङ्गाद मित्तयः स्युश्चतुष्कराः ॥ २२ ॥ अन्धारिका हस्तपदकं विधातव्या समन्ततः । अन्धारिकां च कुर्वीत बाहाभित्तिं विचक्षणः ॥ २३ ॥ अयं साधारकः प्रोक्तो मेरुः सर्वगुणान्वितः । प्रासादानां तथान्येषां गर्भो (लिङ्गदिशगुणः) ॥ २४ ।।
1. बहिरन्तश्च' इति स्यात् । २. 'माय' इति त्यात् । ३. ' हंसस्य ' इति पाठ: स्यात ..
"Aho Shrut Gyanam"