________________
समराङ्गणसूत्रधारे अथ मेदिविंशिकानागरप्रासादलक्षणं नाम
त्रिपष्टितमोऽध्यायः ।
अधुना नागरान् नः प्रासादान् नामलक्षणैः । मेरुमन्दरकैलासाः कुस्भोऽथ मृगराड् गजः॥ १ ॥ विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः। अष्टाश्रिः षोडशाश्रिश्च वतुलः सर्वतोद?भद्र)कः ॥ २ ॥ सिंहास्यो नन्दनो नन्दिवर्धमा?)नो हंसको वृषः। (गुरुत्सागरुडः) पद्मकाख्यश्च समुद्र इति विंशतिः ॥ ३॥ नागराणामिति प्रोक्ता प्रासादानां समासतः। शत(मुद्र)श्चतुद्वारः पाडशक्षितिरूध्व(तः) ॥ ४ । विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते । मन्दरो द्वादशतलः कैलासो नवभूमिकः ॥ ५ ॥ अनेकशिखरश्चित्रश्चतुहारी महोच्छूितिः । विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥ ६ ॥ विंशत्यण्डकसंयुक्तः सप्तभूर्नन्दिवर्धनः । पडभूमिनेन्दनः कार्यः प्रासादः षोडशाण्डकः ॥ ७ ॥ पञ्चभूः सर्वतोभद्रो भद्रशालाविभूषितः । अनेकशिखराकीणेः कतेव्यः प्रचुराण्डकः ॥ ८ ॥ वलभिच्छन्दकः कार्यों देवतानां (ए?)वृषः सदा । वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितः ॥९॥ मण्डलं () स तु विज्ञेय एकाण्डकविभूषितः । सिंहः सिंहाकृति यो गजो गजसमाकृतिः ॥ १० ॥ कुम्भः कुम्भाकृतिस्तद्वद् भूमिकानवकोच्छ्रितः । अञ्जलीपुटसंस्थानः पञ्चाण्डकविभूषितः ॥ ११ ॥
"Aho Shrut Gyanam"