SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ द्राविडप्रासादलक्षणं नाम द्विष्टि तमोऽध्याय : । उच्छ्रायात् पञ्चनवतिहस्तः स्यात् कर्णमानतः । आद्या चतुर्दशकरा भूमिकास्य विधीयते ॥ २१२ ॥ द्वितीयैकादशकरा(न) तृतीयार्थयुता(न् ) दश । दश हस्तांश्चतुर्थी स्यादष्टो साधास्तु पञ्चमी ।। २१३ ।। सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी। अष्टमी षट्करा पश्चहस्ता तु नवमी भवेत् ।। २१४ ॥ दशमी स्याचतुर्हस्ता त्रिहस्तैकादशी क्षितिः । द्वादशी द्वौ करों साधा वेदीवन्धः करद्वयम् ॥ २१५ ।। चतुर्हस्ता भवेद घण्टा सर्वालङ्कारभूषिता । स्तम्भकर्णस्य मानेन कुम्भं कुर्याद् विचक्षणः ॥ २१६ ॥ उच्छालं द्विगुणं स्तम्भात् (हीरसाधसगुणाम् ?) । इत्येते द्राविडाः सम्यक् प्रासादा द्वादशोदिताः ॥ २१७ ॥ एषां पद्ममहापद्मस्वस्तिका वर्धमानकः । सर्वतोभद्र (लता)स्तलबन्धान निवेशयेत् ॥ २१८ ॥ (आरभ्यन्तामरेकस्या च?) द्वादशभूमिका(त्) । ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥ २१९ ॥ द्वादशभूमिकः ।। (पीठमूल?)च्छन्दकभूमिकाभि विनिर्मिता द्राविडनामधेयाः। प्रासादमुख्याः कथिता(यथा यथा वेत्यं स्वल्पिविभिरुच्यतेऽसौ ?) ॥ २२० ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे द्राविडप्रासादाध्यायो नाम द्विषष्टितमः ॥ --- --- १. 'हीरं सार्धगुणान्वितम्' इति स्यात् । २. 'इत्येता' इति पाठः स्यात् । ३. 'आरम्य भूमेरकस्या आ च' इति स्यात् । ४. 'पीठस्तल' इति स्यात् । "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy