SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६६ समराङ्गणसूत्रधारे जङ्घा द्वितीया तु भवेत् तस्य हस्तचतुष्टयम् । द्वितीय कूटस्योत्सेधं साहस्तं प्रकल्पयेत् ॥ १७६ ॥ घण्टा तृतीया चतुरो हस्तास्ताद्विवर्जिता(?) | तृतीयकूटप्रस्तारं कुर्याद भूयोऽपि पूर्ववत् । १७७ ।। जङ्घा भवेच्चतुर्थी+(स सार्धा ) करत्रयम् । पूर्वमानेन कुर्वीत कूटप्रस्तरमूर्ध्वतः ॥ १७८ ॥ हस्तत्रयं विधातव्या जहयोच्छ्रायेण पञ्चमी । कूटमस्तारकं कुर्यात् सार्धहस्तोच्छ्रितं ततः ।। १७९ ।। प (ष्ठष्ठी) हस्तत्रयं जघा पादहीनं विधीयते । प्राग्वत् प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम् ।। १८० ।। तस्योपरि भवेद् घण्टा हस्तपञ्चकमुच्छ्रिता | कर्तव्यं पद्ममुपरि सुविचित्रं पङ्गुलम् || १८१ ॥ कुर्याद्भागैकविंशत्या कुम्भमा (हरणैतम् (भरणैर्युतम्) | षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥ १८२ ॥ षड्भूमिकः ॥ पञ्चत्रिंशत्करः प्रोक्तो विस्तारात् स (म) भूमिकः । साधकान्नपञ्चाशत्कर्ण नित्योति करात् ( 3 ) ॥ १८३ ॥ त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता । सार्वहस्तोच्छ्रितः कूटप्रस्तारो (ऽस्य विधीयते ॥ १८४ ॥ द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायथतुष्करः । सार्धहस्तसमुत्सेधः कूट विस्तार इष्यते ।। १८५ ॥ सार्धहस्तोच्छ्रिता वेदी जङ्घा सार्धंकरत्रयम् । सार्धहस्तोच्छ्रितः कूट ( : ) प्रस्तारः परिकीर्तितः ।। १८६ ।। सपादहस्ता वेदी स्याज्जङ्गा ( ख्यंशं व्यंशं) करत्रयम् । सार्धहस्तस्तु कृत्स्व प्रस्तारः स्यात् समुच्छ्रयात् ॥ १८ ॥ हस्तं स्याद वेदिकान् जङ्कां हि करद्वयम् । सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ।। १८८ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy