________________
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । १९७ पादोनद्विकरा जङ्घा कूटं पादयुतः करः । हस्तमात्रोच्छ्रिता बेदी जया सार्यकरोच्छ्रिता ।। १८९ ।। कूटप्रस्तारको हस्तं कपोतः स्यात् कस्त्रयम् । सपद्मशीर्षघण्टा तु साधु स्यगद्धस्तपञ्चकम् ।। १९० ॥ एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः ।
सप्तभूमिकः ॥ अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ।। १९१ ॥ चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत् । उच्छ्रायः सप्तपश्चाशत् कराः स्यु(स्त्रिास्त्र्यं)शवर्जिताः ॥ १९२ ॥ नवहस्तान् प्रकुर्वीत सार्धान् प्रथमभूमिकाम् । द्वितीयाष्टौ (सपादो(?)स्तृतीयाष्टो करान् भवेत् ।। १९३ ।। चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत् । पञ्चहस्ता ततः पष्ठी चतुहेस्ता तु सप्तमी ।। १९४ ॥ ततोऽष्टमी त्रिहस्ता स्याद् वेदीवन्धः करद्वयम् । घण्टां चतुष्करां कुयोदेवं स्यादष्टभूमिकः ।। १९५ ॥
अष्टभूमिकः ।। अयोच्यते हस्तमानात् प्रासादो नवभूमिकः । विस्तारादेकपश्चाशदुच्छ्रित्या स्याद् द्विसप्ततिः ॥ १९६ ॥ कर्णप्रमाणं (तस्योक्ता विस्तारोऽस्य चनुछितिः)। पञ्चहस्ता भवेद् घण्टा वैदिवन्धस्तदर्धतः ॥ १९७ ॥ कुर्याद्धस्तत्रयं साध नवमीमस्य भूमिकाम् । अष्टमी चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥ १९८ ॥ षष्ठी षट् पादहीनांश्च (सपादोनाम:) पञ्चमीम् । अष्टौ चतुर्थी पादोनान् हस्ता(त्राचा) तृतीयकामे ॥ १९९ ॥
1. 'नव' इति पाठ्यं भाति । २. इत उपरि प्रथमद्वितीयभामकयोः प्रमाण मारकाय न श्यते।
"Aho Shrut Gyanam"