________________
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः ।
पञ्चम्यां भुवि कुर्वीत (जङ्घा सा ) हि करद्वयम् । कुर्वीत कूटप्रस्तारं तथा प्रा (मादितो यथा ॥ ११२ ॥ कुर्यादस्तद्वयोत्सेधं कपोतमपि बुद्धिमान् । चतुर्भागसमुत्सेधा महाष्टा विधीयते ॥ ११३ ॥ उपरिष्टाद्भवेत् तत्र प्रासादे पञ्चभूमिके । कुम्भं तदूर्ध्वं कुर्वीत स्तरानेकोनविंशतिम् ॥ ११४ ॥ संस्थानमेतत् कर्तव्यं सर्वतोभद्रसंज्ञ(कौ के) | विभाजयेद विशेषेण ततः स्तरविभाजनात् ॥ ११५ ॥ श्रीवन्धपीठ कर्तव्यं साहस्तद्वयोच्छ्रितम् । चतुर्दशस्तरं जङ्घा कर्तव्या स्तम्भसंयुता ॥ ११६ ॥ कर्तव्या द्विस्तरा माला लशुनं स्तरसम्मितम् । विदधीत स्तरं पद्मकुम्भगण्डसमन्वितम् (१) ॥ ११७ ॥ उच्छालं द्विस्तरं कुर्या (दिडो ) भागं विधीयते । द्विस्तरं हीरकं कार्य पट्टाचैव तथाविवाः ।। ११८ ।।
पट्टिका स्तरमेकं च वसन्तं द्विस्तरं ततः । वसन्तपट्टिका भागं कपोतं त्रिस्तरं ततः ।। ११९ ।। छेदमेकस्तरं कुर्यात् स्तरमात्रं च मेटकम् |
मकरं भागमेकं च भागं (चराली पट्टिका (म्) ॥ १२० ॥
कुर्वीत भागिकं छेदं ततः कण्ठं च भागिकम् । कण्ठे छेदं ततः कण्ठं च + + + + भागिकम् ॥ १२१ ॥ ( वाख्यापट्टिकां ?) भागं वेदीं विचक्षणः । कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥ १२२ ॥ स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका | कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥ १२३ ॥
विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम् । ऊर्ध्वतः पट्टिकायास्तु घण्टा पश्चस्तरा भवेत् ॥ १२४ ॥
• श्लोकान्ते 'पुनर्भूषणैः' इत्यधिकं पठ्यते ।
"Aho Shrut Gyanam":
१६१