________________
समराङ्गणसूत्रधारे पट्टिका (मद्यः)संज्ञा तु स्तरमेकं विधीयते । घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ।। १०० ॥ कुम्भं विदध्यादुपरि द्विस्तरं यत्र जाननम् । भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ।। १०१॥ पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ । पुनश्छेदो भवेद् भागं ++ कण्ठो विधीयते ॥ १०२ ॥ पट्टिका स्तरमेकं तु तद्वदम्भोजपत्रिका । स्तराणां विंशतिघण्टा भवेद् गांधविस्तृता ।। १०३ ॥ चन्द्रशालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम् । एवं पझे महापः स्वस्तिके वर्धमानके ।। १०४ ॥ तथैव सर्वतोभद्रे कुर्याद घण्टाभिमां बुधः । कुम्भं तु पञ्चदशभिः स्तरैः (कार्याकुर्यात् ) समुन्नतम् ।। १०५॥ स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः।
चतुर्भूमिकः ।। पञ्चभौममथ ब्रूमः प्रासादं राजपूजितम् ॥ १०६ ॥ विस्तारेण विधातव्यः स ह स्वस्ता)नेकविंशतिम् । विभाजयेत् तथोत्सेधं पादोनत्रिशतं करान् ॥ १०७ ॥ पीठं भागद्वयं साधं जड्या (साराम्रा)त्रिभागिकी। कुर्वीत कूटप्रस्तारं साधेहस्तं च बुद्धिमान् ॥ १०८ ॥ जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता । भूयोऽपि कूटपस्तारं सार्धहस्तं प्रकल्पयेत् ॥ १०९ ॥ जङ्घा तृतीया कर्तव्या पादहीनं करत्रयम् । सार्धहस्तसमुत्सेधः कूटप्रस्तार इष्यते ॥ ११० ॥ चतुर्थभूमिजया च सार्धहस्तद्वयोच्छिता। कूटप्रस्तारकं कुर्यात् पूर्वमानेन बुद्धिमान् ॥ १११ ।। १. पद्म' इति स्यात् ।
"Aho Shrut.Gyanam"