________________
समराङ्गणसूत्रधारे नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता । भद्राणि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥ १२५ ॥ स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः । अवलम्बन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥ १२६ ॥ स्तम्भत + + +त्रेण समानं भुवि मुत्रयेत ।। मेढस्य निगमे दद्याद गुलद्वितयं बुधः ।। १२७ ।। पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः । सूत्रयेत् समसूत्रेण ततो मेढकास्य)पट्टिका ॥ १२८ ॥ षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता। यथा प्रवेश + + + छेदस्थापि तथा भवेत् ।। १२९ ॥ अगुलद्वितयं कार्यः पट्टिकाया विनिर्गमः । विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥ १३० ॥ अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका । पद्माव्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥ १३१ ।। अगुलानि ततः पञ्च योनि + निर्गमो भवेत् । घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ।। १३२ ॥ (भेद?)स्ततः स्याद् भवति भूमिका तस्य चोपरि । द्विती(याय)भूमिकाजङ्घा (सद्यः) स्यादष्टभिः स्तरैः ॥ १३३ ॥ मालाबैलशुनं चैकं भरणं कलशस्तथा । यथा माला तथोच्छालं वीरगण्डं स्तरं भवेत् ॥ १३४ ।। उच्छालहीरके पट्टसमे कुर्याद विचक्षणः। पट्टिका भागिकोत्सेधा वासन्त + + का तथा ॥ १३५॥ कपोतं त्रिस्तरोत्सेधं (छेदो?) सत्र्यंशवर्जितम् । छेदस्यार्थे भवेन्मेढो मकरः पट्टिका तथा ॥ १३६ ॥ ततश्छेदं (च) कण्ठं च + + + पट्टिकां तथा । मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधः ॥ १३७ ।।
"Aho Shrut.Gyanam"