________________
१५६
समराङ्गणसूत्रधारे मध्ये च सा प्रकर्तव्या तवं तां विभाजयेत् । ततस्तरं भवेच्छाला स्तरार्ध लशुनं ततः ॥ ४८ ॥ तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम् । वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥ ४९ ॥ पद्मपत्रिकया युक्तं स्तरमुच्छालक विदुः । वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥ ५० ॥ पढें तथैव कुर्वीत स्तरस्यार्धन पट्टिका ! वसन्तः स्तरमेकं स्याद स्तरं वासन्तपट्टिका ॥ ५१ ॥ कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः । छेदमर्धस्तरं विद्यान्मेहं तत्तुल्यमेव च ॥ ५२ ॥ मकरं स्तरमेकं च भागाध पट्टिका ततः । भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥ ५३ ॥ पट्टिका वेदिका चैव स्तरमेकं विधीयते । छेदं भागार्धिकं कुर्यात कण्टकं सार्धभागिकम् ॥ ५४ ॥ भागेन पट्टिका कुर्यात् तथा कमलपत्रिकाम् । कूटं ततः परं कुर्यान्नासिकाचीसु) विभूषितम् ।। ५५ ॥ तृतीयजङ्घा(मद्वा तद्वत् ) स्याचतुर्भिः कल्पिता स्तरः । स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ।। ५६ ।। भरणं स्तरमेकं च कुम्भमेकस्तरं तथा । वीरगण्डसमोपेतमुच्छालं स्यात् तदृवतः ॥ ५७ ।। स्तरमेकं प्रकुर्वीत वीरगण्डलमु(च्छूि तिम् । ततश्व हीरकं कुयोद भागेनकेन बुद्धिमान् ।। ५८ ॥ सार्धभागेन पहिः स्यात् पष्टिका स्तरं तथा । स्तरमेकं वसन्तं स्यात् स्तर वासनाटिका ।। ५९ ।। कपोतो द्विस्तरश्छेदोऽर्धस्तशे मेण्ड का स्तरः । भागिको मकर: कार्यः पट्टिका चार्ध भागिका ॥ ६०॥