________________
द्राविडप्रासादलक्षणं नामैकषष्टितमोऽध्यायः । (भेदो?)ऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः । पट्टिकावेदिका भेदा? स्त्रयोऽप्यर्धस्तरं पृथक् ॥ ६१ ॥ कण्ठश्चार्धस्तरः कार्यः पीठिका चार्धभागिका । अर्धभागेन कर्तव्या तदूर्ध्व पद्मपत्रिका ॥ ६२ ।। विचित्रलक्षणोपेतं ततः कूटं विधीयते । स्तरमेकं भवेच्छेदः स्यात् कण्ठोऽप्येवमेव (च?) हि ।। ६३ ॥ पट्टिका स्तरमेकं स्यात् ततो वेदी स्तरद्वयम् । उदः स्तरं भवेद् भूयः कण्ठः स्याद् द्विस्तर ततः ।। ६४ ॥ कर्तव्ये स्तरमेकैकं पट्टिका पन्मपत्रिका । घण्टा ततः(कोपरं कार्या मानतो विंशतिस्तरा । ६५ ॥ एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत् । त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥ ६६ ॥
त्रिभूमिकः ।। हस्तान् पञ्चदश क्षेत्र विस्तारा(तु)प्रकल्पयेत् । उच्छ्रायेण तु हस्तानां स्यात् (पौदकविंशतिः) ॥ ६७ ॥ द्विहस्तं कारयेत् पीठं जवां हस्तत्रयोच्छ्रिताम् । सार्धहस्तं भवेत् कूटं सर्वालङ्कारभूपितम् ।। ६८ ॥ द्वितीयजका कर्तव्या पादहीनं करत्रयम् । सपादहस्तं कुर्वीत कूटमन्यत् तदृवतः ॥ ६९ ॥ तृतीयजङ्घा कर्तव्या साध हस्तद्वयं ततः । ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ।। ७० ।। जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः। ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ।। ७१ ॥ जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रिता । हस्तं च कूटप्रस्तारो वेदीवन्धस्तथाविध: ।। ७२ ।। गर्भाधविस्तृता घण्टा कायो हस्तत्रयोच्छ्रिता । चतुदेशस्तरः कुम्भः सर्वेपासुपरि स्थितः ।। ७३ ।। १. पादौनकविंशतिः' इति ।
"Aho Shrut Gyanam"