________________
द्राविडप्रासादलक्षणं नामैकषष्टितमोऽध्यायः । पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् । जडा त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ।। ३५ ।। भवेज्जङ्घा तृतीया च सार्धभागद्वयं ततः । भागं च कूटप्रसरश्चन्द्रशालाविभूषितः ।। ३६ !! पुनस्तृतीया जङ्घा (स्याद् भाग)द्वय(समुच्छ्रिता ।। ततश्च(शा)कूट)प्रस्तारो भागिको भूषणान्वितः ॥ ३७॥ भागं स्याद् वेदिबन्धः + सगुणद्वारकण्ठकः । चतु(दीदि)शमसौ कार्यों भूषायुक्तो यथोचितम् ॥ ३८ ॥ घण्टाच्छेदस्तु भागौ (द्वौ) द्वयगुलद्वयसंयुतौ । एकादशस्तरा (कुरु?)स्तस्योपरि विधीयते ॥ ३९ ॥ इदानी प्रविभागोऽस्य पीठावं विधीयते । हस्तमेकं भवेज्जचा(ायपिच?)तया समा ॥ ४०॥ माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः । भरणं स्तरमेकं स्यात् कलशोऽपिच तत्समः ॥ ४१ ॥ वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः । ततस्तरं वीरगण्डो + + -- -- + + + + || ४२ ॥ हीरकं द्विस्तरं विद्यात् (स?स्तरं वासन्तपट्टिका । कपोतं नासिकायुक्तं त्रिस्तरं कारयेत् ततः ।। ४३ ।। छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम् (?) । स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका ॥ ४४ ॥ छेदं तथैव कुर्वीत कण्ठमेकस्तरं ततः। पट्टिका वेदिका चय स्तरमेकं विधीयते ॥ ४५ ॥ छेदमर्धस्तरं विद्यात् कण्ठं सार्धस्तरं ततः । पट्टिका स्यात् स्तरं पद्म सारमेकं ततो भवेत् ।। ४६ ॥ शेषे च सुन्दरं दण्डं विधातव्यं(?) विचक्षणैः । अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥४७॥
"Aho Shrut Gyanam"