________________
१५४
समराङ्गणसूत्रधारे (वसन्तवेदृर्ध्व ततः,स्तस्यैवोपरि पट्टिका । ततः कपोतच्छेदश्च (मेटकर एव च?) ।। २२ । पट्टिका (मकरोप्या च भेदः)कण्ठोऽथ पट्टिका । वेदीच्छेदश्च कण्ठश्च पट्टिका पनपट्टिका ॥ २३ ॥ कूटं तवं कुर्वीत विचित्रं नासिकान्वितम् । छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ।। २४ ।। तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता । ततो मालाथ (ल)शुनं तोरणं कलशस्ततः ॥ २५ ॥ वीरगण्डस्त(तो?थो)च्छालं पत्रकं वीरगण्डकः । हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ।। २६ ॥ कपोतच्छेदमेढाश्च (मैकरोऽस्यः) च पट्टिका । छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥ पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका + + | ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ।। २८ ॥ ततश्छित्त्वा तथा कार्य यथा शोभा प्रजायते । पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ।। २९ ।। ततः कण्ठं विधातव्यं चन्द्रमालाविभूपितम(?) । प्रकुर्वीत ततश्छेदमुपरिष्टाद् विचक्षणः ॥ ३० ॥ कण्ठपट्टिकया युक्तं तवं कण्ठपट्टिकाम् ।। सप्ताङ्गुलानि कतेव्यस्ततो घण्टाविनिगमः ॥ ३१ ॥ भागाध विस्तृतिस्तस्या विस्ताराध समुच्छ्रितिः । एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२॥
द्विभूमिकः ॥ त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते । तस्यैकादश विस्तारो हस्ताः पञ्चदशोच्छ्यः ॥ ३३ ॥ चतुर्दशाङ्गुलान्येषां भवेदस्याधिका(पि?नि) च । के++भूमिकस्यैतत् कर्णमानमसंशयम् ।। ३४ ॥ मकराख्या च वेदी ' इति स्यात् । २, 'मकराख्या ' इति स्यात् ।
"Aho Shrut Gyanam"