________________
द्राविडप्रासादलक्षणं नामैकषष्टितमोऽध्यायः । स्तरप्रमाणं मकरं तद्वन्यकरपष्टिकाम् । पुनश्छेदं स्तरं कुर्याद् वेदीवन्धस्ततः स्तरम् ।। ९ ।। छेदः स्तरप्रमाणश्च कण्ठः स्याद् द्विस्तरं ततः । पट्टिका स्तरमेकं तु तद्बच्चाम्बुजपट्टिका ॥ १० ॥ मालादिपनपत्रान्तं द्विहस्तोत्सेधमीरितम् । सार्धहस्तः समुत्सेधः कूटस्य परिकीर्तितः ॥ ११ ॥ नासिकापद्मसंयुक्तं तदूर्ध्व कलशो भवेत् । एकभूमेरिदं मान प्रासादस्य प्रकीर्तितम् ।। १२ ॥
एकभूमिकः॥ द्विभूमिकस्य लक्ष्मान प्रासादस्वाभिधीयते । सप्तहस्तसविस्ता -: -- -- -- समुच्छ्रितः ॥ १३ ॥ कर्णमानाद् भवेदस्य विभागोऽथ निगद्यते । द्विहस्तं कल्पयेद् बीजं जङ्घा सार्धद्विहस्तकम् ॥ १४ ॥ कूटस्य सन्निवेशोऽयं विज्ञातव्यः सभागिकः । जङ्घा द्वितीया तु पुनः कर्तव्या तस्य भागिका ॥ १५ ॥ सन्निवेशो द्वितीयस्थ स्यात् कूटस्यार्धभागिकः । (दिदिक्रव्यस्) कर्तव्या सह कण्ठेन भागिकः ॥ १६ ॥ तस्योपरिष्टाद घण्टा च सार्धभागसमुच्छ्रिता । नासिकापद्मसंयुक्ता विधातव्या विपश्चिता ॥ १७ ॥ पीठानां पूर्वमुक्तानां पादवन्धादिनामभिः । पञ्चानां कल्पयेदेवं --- भूम्यादितः क्रमात् ॥ १८ ॥ तेषां शोभावहं यत् स्यात् तत् कर्तव्यं विपश्चिता । तस्योपरि भवेज्जङ्घा मालाल+ +संयुता ॥ १९॥ भरणं कलशस्तद् (द्वारची)रगण्डसमन्वितम् । उच्छालं पूर्वमानेन पद्मपत्रायुतं ततः(१) ॥ २० ॥ वीरगण्डः पुनः कार्यो हीरं पूर्वक्रमेण च । तस्योपरिष्टात् पट्टश्च भवेत् पट्टिकया सह ॥ २१ ॥
"Aho Shrut Gyanam"