________________
१५२
समराङ्गणसूत्रधारे पीठान्युक्तान्येवमेतानि पञ्च
प्रासादानां नामभिर्लक्षणैश्च । पञ्च प्रोक्ता ये तलच्छन्दभेदा
स्तैर्विज्ञातैः पूज्यतामेति लोके ॥ ६४ ।। इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
पीठपञ्चकाध्यायो नामैकषष्टितमः ॥
अथ द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः ।
ऊर्ध्वमानमथ ब्रूमो घण्टान्तपुरपादितः(?) । प्रमाणं कर्णमानेन सर्वेषामेव धारयेत् ॥ १ ॥ तत्रैकभूमि(कः) कार्यों हस्तपञ्चकविस्तृतः । अगुलद्वितयोपेतः१) सप्तहस्तसमुच्छ्रितः ॥ २ ॥ पादो द्विहस्त उत्सेधात् सर्वालङ्कारभूषितः । सार्धहस्तसमुत्सेध(स्तावन्मानः स्तरावधि?) ॥ ३ ॥ माला तु द्विस्तरा प्रोक्ता स्तरो लशुनकं भवेत् । भरणं स्तरमेकं स्याद् भरणार्ध स्तरद्वयम् ।। ४ ।। कलशाातरं ज्ञेयो वाररावासमन्वितः(?) । द्विस्तरं कुलकं कुर्यात् पद्मपत्रसमन्वितम् ॥ ५ ॥ वीरगन्द्रा(१) पुनः कुर्यात् स्तरमेकं तव॑तः । द्विस्तरं हीरकं प्रोक्तं पट्टश्चैव तथाविधः ॥६॥ पट्टिका स्तरमेकं स्याद् वसन्तं द्विस्तरं विदुः । वसन्तपट्टिका चोवं स्तरमेकं विधीयते ॥ ७ ॥ कपोतं नासिकायुक्तं विदधीत स्तरत्रयम् । + दन्तरं प्रकुर्वीत मेटमेकस्तवंस्तत (2) ॥ ८॥ १, तदन्तरे प्रकुर्वीत मेडमेकं स्तरं ततः' इति स्यात् ।