________________
समराङ्गणसूत्रधारे ज्येष्टमध्यकनिष्ठानां साधाराणां तथैव च । तेष्वलिन्दैर्युताः केचिद् भद्रैः केविच वेष्टिताः ॥ ९२ ॥ केचिद् वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः । सर्वेऽप्येते विधातव्या (रिज )भागप्रतिष्ठिताः ॥ ९३ ॥ कोणा न विषमाः कार्या वर्गभेदश्च नेष्यते । एकहस्ता द्विहस्ता ++ ++ ये प्रकीर्तिताः ॥ ९४ ॥ यक्षनारागृहादीना(?) रक्षसां च भवन्ति ते । भागेन (धूमः सतु?) त्रेधा विनिर्दिशेत् ॥ ९५ ॥ ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः । ज्येष्ठं सात्रिहस्तं स्यात् त्रिहस्तं मध्यमं विदुः ।। ९६ ॥ सार्धहस्तद्वयमितं कनीयस्तद् विधीयते । त्रिहस्तं ज्येष्ठमपरं मध्यं हस्तसमन्वितम् ॥ ९७ ।। अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम् । ज्येष्ठो भागो द्विहस्तः स्यात् पादोनं मध्यमः करम् ।। ९८ ॥ कनीयान् मध्यमार्धेन भागमानमिदं करैः । पडन्वितास्त्रिंशदमी विचित्राः
श्रीकूटका(धातिथिता ग्रवात)। प्रासादमुख्या इह षट्प्रभेदा
भिन्ना +-+-+ सह मण्डपैश्च ॥ ९९ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
श्रीकूटादिषट्त्रिंशत्रासादलक्षणं नाम
षष्टितमोऽध्यायः ॥
-
-
.
-
-
.
.
.
.
.
१.द्याः कथिता यथावद्' इति स्यात् ।
"Aho Shrut Gyanam"