________________
पाठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । अथ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः।
इदानी द्राविडान् ब्रूमः प्रासादाञ् शुभलक्षणान् । एकभूम्यादयस्ते स्युयोववादशभूमिकाः ॥ १ ॥ पीठान्यपिच कथ्यन्ते तेषां पञ्चैव लक्षणैः । तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥ २ ॥ पीठमायं भवेत् तेषु पादवन्धनमुत्तमम् । (स्त्री?श्री)बन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥ ३॥ प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् । पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ।। ४ ॥ एतानि पञ्च पीठानि प्रोक्तानीह समासतः । उत्सेधं भागविंशत्या विभजेत् पादवन्धने ॥ ५ ॥ खुरकः पञ्चभागः स्याद् द्वौ)भागौ पद्मपत्रिका । भागिकी कणिका कायों विभागं कुमुदं भवेत् ॥ ६ ॥ कण्ठस्तु भागेनैकेन कण+श्च द्विभागिकः ।। पटिका भागमेकं स्याद् भागिकी पद्मपट्टिका ।। ७ ।। त्रिभागिकं कपोतं च कुर्यान्नासिकया सह । भागमेकं भवेच्छेद (:)पादवन्धाख्यपीठके ।। ८ ।। पद्मपच्याः प्रवेशः स्यात् खुरकादङ्गुलद्वयम् । ग्रासः षडङ्गुलस्तस्याः कुमुदं सप्तनिगमम् ।। ९॥ प्रवेशमानं तावत् स्याद् याव(द्वि?द्धि)च्छेदपट्टिकी । पडगुलप्रवेशं च च्छेदपदृस्य कारयेत् ॥ १० ॥ समस्तत्रं(?) विधातव्यं छेदस्य कणिकस्य च । निर्गमेण पुनस्तस्माद् द्वयगुला कण्ठ पट्टिका ।। ११ ॥ अङ्गुलत्रितयं तस्याः पमपत्रीविनिर्गमः । (कापोत्तस्य + + + + तस्या? स्यादगुलत्रयम् ।। १२ ।।
"Aho Shrut Gyanam"