________________
श्रीकूटादिषट् त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । १४५
तदानीं भद्रविष्कम्भः मासादः स्यात् सुखप्रदः ।
भद्रविष्कम्भः ॥
चित्रकूटादिषट्कम् |
चतुरश्रे समे क्षेत्रे विभक्तेऽष्टभिरष्टकैः || ८० || प्रासादं (चयेद्वा) उज्जयन्तं सुशोभनम् । पदमेकं भवेत् कर्णस्तिलकन्तावदेव च ॥ ८१ ॥ समित्तिगर्भशनेन भद्रं कुर्याद् विचक्षणः । बाह्यभित्तिर्भवेद् भागं भागमेकं प्रदक्षिणा ॥ ८२ ॥ भागिका गर्भमित्तिथ गर्भमध्ये चतुष्पदम् । पञ्चभागोन्मिता जङ्घा भागं तत्रैव मेखला || ८३ ॥ कर्तव्यं भागिकं शृङ्गमण्डकं चार्थभागिकम् । द्वितीयं साण्डकं शृङ्गं तत्समं पदमध्यगम् ॥ ८४ ॥ मच्छायं विधातव्यमुत्सेधेनार्थभागिकम् । पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् || ८५ || भागिकः कलशः कार्यो ध्वजशं + स्य तत्समः । एतस्य मूलशिखरं कुर्यात् भागविस्तृतम् ॥ ८६ ॥ भागाधिकसमुत्सेधं कार्य कल्याणमिच्छता । ऊर्ध्वं तिलकशृङ्गस्य शिखरं स्यात् पदोच्छ्रितम् ॥ ८७ ॥ पञ्चाशद्वस्तृतं (?) शेषं श्रीवत्सस्येव कारयेत् । इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥ ८८ ॥ कार्योऽयं सर्वदेवस्य प्रासादः शुभलक्षणः ।
उज्जयन्तः ॥
चित्रकूटा ( द ) यथोत्पन्नाः प्रासादा विमादयः ॥ ८९ ॥ उज्जयन्तात् तथा पञ्च मेरुप्रभृतयो मताः । मेरुश्च मन्दरचैव कैलासः कुम्भ एव च ॥ ९० ॥ गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः । अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥ ९१ ॥
१. 'रचयेद् विद्वान्' इति पाठ्यं भाति । २. 'पञ्चांशविस्तृतम्' इति स्यात् ।
"Aho Shrut Gyanam"