________________
१४४
समराङ्गणसूत्रधारे भद्रकोशं तदा विद्यात् षष्ठं प्रासादमुत्तमम् ।
*भद्रकोशः ॥ __ सर्वतोभद्रपटकम् । चित्रकूटमथ ब्रूमस्तं भजेदष्टभिः पदैः ॥ ७० ॥ कुयोत् करेभ्योऽष्टाभ्यस्तं यावत् स्याद्धस्तविंशतिः । कर्णभागिकविस्ताराः शेषालिन्दतिविस्तृतिः (१) ॥ ७१ ॥ भद्रं चतुष्पदं विद्याद भागेनैकेन निर्गतम् । भागेन निर्गतोऽलिन्दो भित्त्यन्धार्यः पदं पदम् ॥ ७२ ॥ द्विपदोऽस्य भवेद् गर्भ(स्तलच्छत्ति समशिख)मिष्यते । अण्डकं भागिकं कार्य क्रमाच्च क्रमसंवता ॥ ७३ ॥ ऊर्ध्व द्वितीयशृङ्गस्य कर्तव्या मूलमञ्जरी। सप्तभागोदया प्राग्वद् भागषट्कं तथायता ।। ७४ ॥ प्रासादमीदृशं कुर्याचित्रकूटं प्रमाणतः ।
चित्रकूटः ॥ (भद्रागवविनिष्का!) तस्यैव यदा भवेत् ।। ७५ ॥ प्रासादो विमलो नाम तदानीमुपजायते ।
विमलः ॥ अलिन्दस्तु यदास्यैष भद्रहीनो विधीयते ॥ ७६ ॥ सदानी हर्षणो नाम प्रासादः स विजायते ।
___ हर्षणः ॥ क्रियते तु यदास्यैव कूपरं भागनिर्गमम् ॥ ७७ ।। तदानी भद्रसंकीर्णः प्रासादो जायते शुभः ।
भद्रसेकीर्णः ॥ अस्यैव तु यदा भद्रं भागेनैकेन निर्गतम् ।। ७८ ॥ भवेत् तदानी प्रासादो नाना भद्रविशालकः ।
भद्रविशालकः ।। ++ + भद्रश्च विना यदा त्वेष विधीयते ॥ ७९ ॥ * सम्ोदरनन्दिभद्रयोर्लक्षणं व्युतम् ।
Aho Shrut Gyanam