________________
श्रीकूटादिषदत्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । १३९ स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता । स्याद् भागिकम(स्छा?धश्छा)धे मञ्जर्या या तु विस्तृतिः ॥ १६ ॥ दशधा प्रविभाज्यासौ शेषं श्रीवत्सबद् भवेत् । स्कन्धः षड्भागविस्तारो ग्रीवा भागाधेमुच्छ्रिता ।। १७ ॥ अण्डकं भागिकं कार्य कुमुदं चार्धभागिकम् । सार्धमागेन कलशो वीजपूरकसंयुतः ॥ १८ ॥ द्वितीयकर्णशृङ्गस्य स्यावं मूलमञ्जरी । +++++++ + अष्टभागसमुच्छ्रिता ॥ १९ ॥ श्रीवत्सवद् विभागोऽस्याः स्कन्धग्रीवादिके भवेत् । एवं श्रीकूटसं(क्षेपं?ज्ञोऽयं) प्रासादः परिकीर्तितः ।। २० ॥ यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते ।
श्रीकूदः ॥ अथ लक्ष्म + ++++++ स्याभिधीयते ॥ २१ ॥ तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् । मुखायामेन तिर्यक् तु चतुरश्रं++++ ॥ २२ ॥ +++भद्रविस्तारः कर्णाश्च तिलकास्तथा । मध्ये चतुष्किका कार्या भद्रविस्तारसम्मिता ॥ २३ ॥ नि+++++++ विधातव्यस्तु मण्डपे । जङ्घामासादजवायाः समोत्सेधा(?)विधीयते ।। २४ !! मेखलं भागिक ++++++च पूर्ववत् । स्तम्भं व्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥ २५ ॥ क्रमाश्रयो यवाः पञ्च सिंहक +++++ । शोभिताः सिंहकर्णैश्च नृच्छाद्यानातिभूषिताः(?) ।। २६ ।। मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः ।
श्रीकूटस्य मण्डपः समाप्तः । अलिन्दे तु यदास्यैव क्रियते भद्रवेदिका (यदा?) ॥ २७ ॥
"Aho Shrut Gyanam"