________________
१३८
समराङ्गणसूत्रधार
बीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः । (भवतो रुद्र?)संज्ञश्च (भवद्वाह्योदरस्तचः) ।। ४ ।। नियुहोदर(संज्ञोऽन्य)स्ततो ज्ञेयः समोदरः । नन्दिभद्रो भद्रकोशचित्रकूटस्ततः परम् ।। ५ ।। विमलो हर्पणो भद्रसङ्कीर्णस्तदनन्तरम् । ततो भद्रविशालाख्यो भद्रविष्कम्भ एव च ॥ ६ ॥ उज्जयन्ताभिधानश्च सु(खे?मे)रुरथ मन्दरः । कैलासः कुम्भका(क्ष?ख्य)श्च गृहराजश्च नामतः ।। ७ ।। एते(परिषद) त्रिंशदुदिष्टा लक्षणं कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।। ८ ॥ प्रासादं विभजेत् प्राज्ञः श्रीकूट) नाम शोभ(ने?नम् ) । ज्येष्ठः स्याद् विंशतिहस्ता मध्यमो दश पञ्च च ॥९॥ कनीयान् दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया । भद्रं षड्भागिकाया(सं?म) कणोः कार्या द्विभागिकाः ॥१०॥ तिलकं भागिकं कार्य भागेनकेन निर्गतम् । तस्माद् भागेन निष्क्रान्तं भद्रमस्य विधीयते ॥ ११ ॥ भागिकी बाह्यभित्तिः स्याद् द्विपदा चान्धकारिका । भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥ १२ ॥ अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ।। १३ ।। भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् । पूर्वशृङ्गस्य मध्ये तद् विधातव्यं विचक्षणः ॥ १४ ॥ सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः । द्वितीयतिलकस्योर्ध्व सुश्लि(ष्टष्टा) रूपसंयुता ॥ १५ ॥ १. सर्वतोभद्र' इति स्यात् । २, ‘भवेद् बाह्योदरस्ततः' इति पाठः स्यात् ।
"Aho Shrut Gyanam'