________________
श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । १३७ मृन्मये मृन्मयः कार्यश्चयने चयनोद्भवः । प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥ २४१ ॥ विभवस्यानुसारेण स कार्यो धार्मिकैस्त्रिभिः।
विभवः ।। तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥ २४२ वनचीरतुलाशाण्डो(?) डोलाक्रीडाभ्रमैहैः । वस्त्रजैश्चित्ररूपाधैर्घण्टादर्पणतोरणैः ॥ २४३ ॥ ध्वजच्छत्रविमानायैः किङ्किणीभिर्विराजितम् । यत्किञ्चित् सुन्दरं सर्वं तदत्र विनिवेशयेत् ।। २४४ ॥
तारागण: ॥
अष्टाष्टकैट्टै च विशेषयोगात्
प्रासादषष्टिश्चतुरन्वितैषा । विमानमुख्याः कथिता य एतान्
(जातायस्यैस.) शिल्पिगणाग्रणीः स्यात् ।। २४५ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे
विमानादिचतुःषष्टि मैकोनषष्टितमोऽध्यायः ।।
-
अथ श्रीकूटादिषत्रिंशत्प्रासादलक्षणं नाम
षष्टितमोऽध्यायः ॥
--- -- प(ड्वित्रिं)शतमथ ब्रूमः प्रासादान् नागरक्रियान् । साधारान् प्रथमस्तेपु श्रीकूटः श्रीमुखस्ततः ॥ १ ॥ श्रीधरो बैदरश्चैव तथा(भ्यःन्यः) प्रियदर्शनः । कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥ २ ॥ सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः । सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥ ३ ॥ 1. 'जानात्यसौ' इति स्यात् । २. 'वरद ' इति लक्षणे दृश्यते ।
- . ----- --
-- -- --- ....
an-re-
-
-
-
"Aho Shrut Gyanam"