SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे वेदिषण्डाम्बुमार्गाद्यैः प्रतोलीद्वारजालिकैः । सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ।। वृत्तस्तम्भस्तुलाच्छन्नो बहिश्छायेन भूषितः । सिंहव्यालगजैः पत्रैमुखे सस्तम्भतोरण: ।। २३१ ॥ पुनः कार्य प्रमाणं तु यथाशोभं विधीयते । मनोहरः ॥ वृत्तवृत्तायतो मस्तयोः कम्बुसमाकृतिः ॥ २३२ ॥ वृत्तस्तत्र तलन्यासचतुरस्रोंऽशपञ्चकम् (१) । वृत्ताधमूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ।। २३३ ।। कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे । . वृत्तवृत्तायतौ ।। चैत्यस्य लक्षणं ब्रूमः स स्याच्छा(द्य)त्रयान्वितः ।। २३४ ॥ अस्याकार: प्रमाणं च यथा वृत्ते तथा भवेत् । चैत्यः ॥ किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥ २३५ ॥ वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः । किङ्किणीकः ॥ इदानी लयनं ब्रूमः स शैलखननाद् भवेत् ॥ २३६ ॥ निःश्रेण्यारोहसोपाननियुहकगवाक्षकान् । वेदीभ्रमविटङ्कांच प्रतोलीद्वारसंयुतान् ।। २३७ ।। (उत्कीर्णानाचरे तरमाग्रीवन्मानं च?)॥ लयनम् ।। इदानी पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् (१) ॥ २३८ ॥ (पोहातो?) जालपादैश्च वेदीषण्डैश्च मण्डितम् । कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥ २३९ ॥ पट्टिसः ॥ विभवः कथ्यते स स्यात् (सुयोमन्यसमाश्रयः?)। दारवे दारवो योज्या शैलजे शैलसम्भवः ॥ २४० ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy