________________
विमानादिचतुष्पष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः। १३५ मु(वैः खे) पत्रैगवाक्षश्च वेदिकास्तम्भतोरणः । वलभीशालभञ्जीभिः सिंहकर्णेश्च भूषयेत् ।। २१९ ।। विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्यसंमितम् ।
हर्म्यः ।। इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥ २२० ॥ कुर्याद् भूहर्म्यमानेऽत्र द्वारि मण्डपभूषितम् । चतुद्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ।। २२१ ॥ प्रमाणमन्यदप्यस्य हर्म्यस्येवाखिलं भवेत् ।
उज्जयन्तः ॥ इदानीमभिधास्यामा गन्धमादनलक्षणम् ।। २२२ ॥ हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः।। अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥ चतुष्कीजालपक्षमाद्या वामदक्षिणभागयोः । प्रमाणमस्य कतेव्यं यथा हम्यस्य कीर्तितम् ।। २२४ ॥
गन्धमादनः । बमोऽथ शतशृङ्गं स त्रिविष्टपसमो भवेत् । विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥ +द्विभागानि कूटानि सैकमण्डशतं भवेत् । भूमी भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥ प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् ।
निरवद्यः ।।* विभ्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ।। २२७ ॥ सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् । गवाक्षा वेदिजालाद्याः(१) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥
विभ्रान्तः ॥ मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा। साच्छाद्यतोरणैर्दिक्षु चतुरः समण्डपः ॥ २२९ ।। *हर 'शतशृङ्ग' इति लेख्यम् । निरवधस्य लक्षणमपि गलितम् ।
"Aho Shrut Gyanam"