SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः । कर्णाश्च तस्य कर्तव्याः शृङ्गः स(?)ऽपि पूरिताः ॥ २०८ ।। मध्यप्रदेशे वलभी कर्तव्या चातिशोभना । यत्किञ्चित् तत्प्रमाणं तु यथैवाये तथा भवेत् ॥ २०९ ॥ कुञ्जरः ॥ अथ हर्ष प्रवक्ष्यामश्चतुरश्रं मनोरमम् । विस्तारात् सार्ध उत्सेधः (स्यायटां?)मस्तकावधेः ।। २१० ।। छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् । शुकनासं सुखातेन शोभितं परिकर्मणा ॥ २११ ॥ जङ्घामेखलयोश्च+खुरपिण्डस्य चोच्छ्रितिः । घण्टाग्रं चन्द्रशाला च च्छाधकं च यदृच्छया ।। २१२ ॥ कुर्यात् प्रमाणमन्यच्च यथैव मनसः प्रियम् । हर्षणः ॥ इदानीं विजयं ब्रूमः प्रासादं (सार्थ? शोभनम् ॥ २१३ ॥ लतिनो वर्धमानेन ++++विभाजयेत् । शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥ २१४ ॥ अग्रप्राग्नीवको कार्यों रथको वामदक्षिणौ । (कर्तव्योलतचापं पूर्णः१) सर्वतोदिशम् ।। २१५ ।। विजयो वर्धमानश्च प्रमाणेन समावुभौ । अलिन्दभेदानामास्य कृतं विजय इत्यदः ॥ २१६ ॥ महापद्मः ॥ मोऽथ हयं प्रासादं तं कुर्यादेकभूमिकम् । दारुजं चतुरश्रं च (पट्टतुलाभित्तिभिः) ।। २१७ ॥ दण्डच्छाद्यं च कुर्वीत समन्ताच चतुष्किकाम् । ऊर्वतस्तुम्बिकाक्रान्तं पद्मखण्डविभूषितम् ॥ २१८ ।। १. इह "विजयः' इति लेख्यं भाति । महापद्म इति लेग्वनेन च विजयानन्त. रक्रमलक्षणीयानामुदकुम्भमोदकमहापद्मानां लक्षण श्लोका गलिता इत्यनुमायते । "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy