________________
विमानादिचतुष्पष्टिपासादलक्षणं नामैकोनषष्टितमोऽध्यायः। १५३ विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः । भूग्रीवामेखलाजवाः कुम्भकामलसारके ॥ १९६ ॥ सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत् । द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ।। १९७ ॥
गुहाघरः ॥ कथयामोऽथ शालाकं दशधा तं विभाजयेत् । द्विभागिको मूलकर्णी षड्भागा भद्रविस्तृतिः ।। १९८ ॥ द्वाराणि भद्रमध्ये स्युर्मूलद्वारसमानि तु । चतुर्बाहुश्चतुद्वारो द्वितीयो रुचको ह्यसौ ।। १९९ ॥ द्वारमानेन नामास्य शालाक इति कीर्तितम् । प्रमाणमन्यद् यत्किञ्चिद् भद्रकस्येव तद भवेत् ॥ २०० ॥
शालाकः ॥ इहानी वेणुकं ब्रूमश्चतुरश्रं समं शुभम् । न कुयोद् भद्रनिष्काममात्रच्छत्रात्मनः(१) शुभम् ।। २०१॥ विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं (यचेदिष्यत्) । शिखाद्विगुणमानस्य नवा व्यंशेन कल्पते ।। २०२ ॥ जङ्घात्रिभागमुत्सेधात् कार्या खुरवरण्डिका । कपोतान्तरपत्रं च कर्तव्यं सार्धभागिकम् ।। २०३ ॥ चतुर्भा(गोगे)न सूत्रेण वेणुकोश समालिखेत् । सर्वतः शोभनं कुयात् तं कपोतविनिर्गमे ॥ २०४ ॥ मुखेऽस्य सिंहकर्णाः स्युश्चन्द्रशालाविवर्जिताः । प्रमाणमस्य यत्किञ्चिद् वेणुकं च विधीयते ॥ २०५॥
वेणुकम् ॥ इनानी कुञ्जरं ब्रूमो गजलक्षणलक्षितम् । अर्धसूत्रेण तत(सारसी,म्नः पृष्ठतो वृत्तमालिखेत् ।। २०६ ।। चतुर्भागा भवेज्जका मेखला सार्धभागिका । वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥ २०७॥
"Aho Shrut Gyanam"