________________
१३२
समराङ्गणसूत्रधारे
योगपीठमथ ब्रूमस्त्रिविष्टपमिवोत्तमम् । विभजेद् भागविंशत्या चतुरश्रं समन्ततः ॥ १८४ ॥ (कोष्ठान्यद्भागविस्तारा) कुर्याद् दिक्षु विदिक्षु च । भागिको जलमार्गे च विदध्याद् वामदक्षिणौ ॥ १८५ ॥ विस्तारात् तेषु गर्भः स्याद् भागत्रितयसंमितः । पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ।। १८६ ॥
खुरकं वेदिबन्धं च कुर्याद् भागत्रयोच्छ्रितम् । विस्तारात् (कुर्याद् दिक्षु) द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥
सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः ।
रचनास्य विधातव्या कथिता पुष्पके तथा ॥ १८८ ॥ सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः ।
योगपीठः ॥ घण्टानादमथ ब्रूमः स भवेत् पञ्चभूमिकः ॥ १८९ ॥ अष्टाश्रिकोणः कर्तव्यः संस्थानात् पुष्पकोऽपरः । भैरवो भद्रकाली च (स्थाप्य चात्र पाठको ? ) ॥ १९० ॥ घण्टानादः ||
पताकिनमथ ब्रूमो वातोद्भूतमिवार + | लतिनं लतिनाकारं (?) विभक्तं सर्वतोदिशम् ॥ १९१ ॥ तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम् । (वृक्षपताकिनं वक्ष्यामि + भूतं शाखिनं यथा ) ॥ ९९२ ॥ पताकिनः ॥
गुहाघरमथ ब्रूमः श्रीपुष्टिसुखदायिनम् । विभक्ते दशधा क्षेत्रे भद्रं स्याद् गर्भमानतः ॥ १९३ ॥
अन मूलगर्भस्य कार्यो भद्रस्य निर्गमः । सामाविष्ट कर्णौ द्वौ द्वौ च पार्श्वयोः ॥ १९४ ॥
( जलाधा ) मूलक कर्तव्यः पार्श्वयोर्द्वयोः । तद्वारमध्यदेशे तु विन्यस्येत् स्तम्भतोरणम् ॥ १९५ ॥
"Aho Shrut Gyanam"