________________
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । १३१
१७३ ॥
नयावर्तमथ मो दशधा तं विभाजयेत् । ( पादोमध्यंशविस्तारो ) कर्णौ कुर्वीत पार्श्वयोः ॥ १७२ ॥ चतुर्भागविस्तारं भद्रमस्य प्रकल्पयेत् । सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् जलाधाररथं कर्ण (तः १) शालान्तेषु यथेष्टतः । ष+सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥ १७४ ॥ जलमार्ग च कुर्वीत शालाकर्णान्तमूलयोः । प्रमाणमन्यथा किञ्चिद् (भूसिंहस्येव ) कारयेत् ॥
१७५ ॥ सुपर्णः ॥
प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते । दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ।। १७६ ।। द्विभाग मूलकण तु कर्तव्यो वामदक्षिणौ । मूलभद्रस्य विस्तारः षड्भिर्भागैर्विधीयते ।। १७७ ॥ विस्तारो द्विगुणः कार्यः स्कन्धोत्सेधप्रमाणतः । पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी || १७८ ॥ खुरकं वेदिबन्धं च तत्रिभागेन कल्पयेत् । भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥ १७९ ॥ सिंह (स्य) कर्णवन्मध्ये वलभ्या भूषयेद् बुधः । सर्वमन्यत् प्रमाणं च सर्वतोभद्रवद् भवेत् ॥ १८० ॥
सिंहः ॥
विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् । (द्विभागको मूलभद्रस्य) हस्ततुल्याङ्गुलो भवेत् ॥ १८१ ॥ शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् । कूटे द्वे सर्वतो न्यस्येच्लिष्टे +मूलक+योः ॥ १८२ ॥
एष भेदः समुद्दिष्टः शाला स्यात् कूटवर्जिता । प्रमाणमन्यत् सर्वं तु विज्ञेयं चित्रकूटवत् || १८३ ॥
"चित्रकूटः ॥
१. पादोनांशविस्तारौ ' इति पाठ: स्यात् । २. 'विचित्र' इति लक्ष्यनिर्देशे पठितः ।
"Aho Shrut Gyanam"