________________
१३०
समराङ्गणसूत्रधारे
तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् । मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् || १६१ ।। विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः | साद्विगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १६२ ॥ चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् । (श्रीग्री) वार्धभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १६३ ॥ अस्मिन्नामलसारं च यथा चाद्ये तथा भवेत् ।
पद्मनाभमथ ब्रूमः पद्मशालाभिरन्वितम् द्वितीयः पद्मको ह्येष पद्ममालाधरः शुभः । सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ।। १६५ ।।
श्रीवत्सः ॥
१६४ ॥
वैराजमथ वक्ष्यामि स विज्ञेयो विमानवत् । (रूपशिख+मुत्सेधस्तम्भग्रीव + रूपकम् ? ) || १६६ ॥
पद्मनाभः ||
सभातोरणनिर्यूह सिंहक (र्णा च तादृशैः । साधारं चतुरथं च तं कुर्यात् पञ्चभूमिकम् || १६७ ॥ विमानसदृशाकारो वैराजोऽयमुदाहृतः ।
,,
बैराजः ॥
मोऽथ वृत्तकं मूले चतुरः प्रकीर्तितः ।। १६८ । जङघामूले ततोऽष्टा(भिखिः श्रि) वृत्तो भाग तृतीयके । मूलमध्यायतः पूर्णं तं कुर्यात् सर्वतो दिशम् || १६९ ॥ भद्राकारं च भद्रेषु विभागे चतुरश्रके ।
( अष्टाश्रिवज्जकाकारा ) वृत्ते स्वस्तिकसन्निभम् ॥ १७० ॥
'अष्टाश्रौ वज्रकाकारम्' इति स्यात् ।
"Aho Shrut Gyanam"
यथा मूलविभागेन लतिनः स्वस्तिकोदयः । तथा वृद्धिप्रमाणाभ्यामयमप्याद्यवद् भवेत् ॥ १७१ ॥
वृत्तकः ॥