SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४० समराङ्गणसूत्रधारे प्रासादः श्रीमुख + + तदानीं स्यात् सुखावहः । श्रीमुखः ।। यदा कूपरमस्यैव चतुरश्रमधो भवेत् ।। २८ ॥ तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः ।। श्रीधरः ॥ अस्यैव तु यदालिन्दः क्रियते भद्रवर्जितः ॥ २९ ॥ (रुचेः१)भवेत् तदानीं वरदः प्रासादः शुभदायकः । वरदः ॥ विधीयते यदास्यैव भद्रमेकं विनिर्गतम् ॥ ३० ॥ निय॒हश्च तदा स स्यात् प्रासादः प्रियदर्शनः।। प्रियदर्शनः ॥ विधीयते यदास्यैव नन्द्यावर्तो विनिगमः ॥ ३१ ॥ कुलनन्दस्तदा ज्ञेयः प्रासादः सुखकारकः । कुलनन्दनः ॥ . इति श्रीकूटादिपदकम् । अन्तरिक्षमथ ब्रूमस्तस्य द्वादशभागिका(?) ॥ ३२ ॥ षडविंशत्या करैज्येष्ठमानायां दशभिर्भवेत(?) । मध्य(मेमो) मध्यमानेन हस्तसंख्येयमीरिता ।। ३३ ।। पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः । विस्तारस्तिलकानां स्यादन्तरं भद्रकर्णयोः ।। ३४ ॥ निर्गमः सार्धभागः स्याद् भद्रस्य तिलकस्य च । गर्भः षोडशभागः स्याद भागिकी भित्तिविस्तृतिः ॥ ३५ ॥ प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत् । कथितोऽयमधश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥ ३६ ॥ जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला । ++भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥ ३७ ॥ १. 'स स्याद् द्वादशभागिकः' इति स्यात् । २. 'ठ: कनीयान्' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy