________________
विमानादिचतुष्पष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ११५ शृङ्ग भागत्रयोत्सेधं सग्रीवामलसारकम् । मूलशृङ्गस्य गर्भेण न्यस्ये दुपरिभूमिकाम् ।। ३३ ।। द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत् । द्वौ भागौ शृङ्गविस्ता(रौ रो) विधेयः पार्श्वयोर्द्वयोः ॥ ३४ ॥ सग्रीवामलसारस्व तैः शृङगस्योदयस्थितिः । तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥ ३५ ।। तस्या भूमेस्तु विस्तारं दशधा भाजयेत् पुनः । यः शेषः शिखरायामो (तद्वितिनंते?)विनिर्दिशेत् ।। ३६ ।। विभजेद् वर्धमान वा रुचकं वास्तु शोभनम् । कर्णान्तरे भद्रमध्ये वल्लभालभी) तत्र कारयेत् ॥ ३७॥ भूमिकाशिखरेणो नवभूमि विभेदयेत् । वेदिकामध्यसूत्रस्य (कर्णतोर्ध्वभुवस्तथाः) ।। ३८ ॥ भूमिकोर्श्वभुवश्चैव विस्तारं दशधा भ(वेजे) त् । मूलसीमानुसारेण स्याच्छेदावधि संहतिः ॥ ३९ ॥ ग्रीवा मूलार्धभागे+++ नामलसारकम् ।। चन्द्रिका चाधेभागेन+++कलशो भवेत् ॥ ४० ॥
सर्वतोभद्रः ।। गजस्य संस्थानमथ प्रासादस्याभिधीयते । चतुःषष्टिपदं वास्तु प्रासादस्य विभाजयेत् ॥ ४१ ॥ ततः सीमासूत्रेण पृष्ठतो वृत्तमालिखेत् । पञ्चभागमिता जङ्घा मेखला साधेभागिकी ॥ ४२ ॥ अग्रतः सूरसेनः स्यात् पृष्ठतः कुञ्जराकृतिः । सीमानमष्टधा कृत्वा विभजेन्नन्दने यथा ॥ ४३ ॥ दौ द्वौ च कर्णयोर्भागौ भद्रेषु चतुरो विदुः । विस्तारार्धेन जङ्घा स्याद् रथिकायाः पृथक पृथक् ।। ४४ ॥ भागत्रयोच्छ्रितं शृङ्गं कर्णदेशे विधीयते । समभागसमुत्सेधा वलभी मध्यसंश्रिता॥१५॥
"Aho Shrut Gyanam"