________________
११८
समराङ्गणसूत्रधारे पश्चभाग + विस्तारा घण्टाकोटिविधीयते । (कुमान्द)वेदिवन्धं च घण्टाग्रं मस्तकोदयम् ॥ २१ ॥ मापयेत् समात्रेण समन्ताद् भूमिपञ्चके । व्यासार्धहस्तसङ्ख्यानि प्रवेशा?)प्रथमं क्षितेः ।। २२ ।। अगुलानि तदा द्यर्थो द्वितीयायाः प्रकीर्तिताः) । संयोगादनयोर्यः स्यात् तृतीयायास्तमादिशेत् ॥ २३ ॥ तदध्यर्धश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः । स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥ २४ ॥ लतया विस्तृतिभद्रे युक्ताया जालवर्त्मनः(?) । (वेदिदोग्रविधातव्यो) सार्धसविस्तृतौ ।। २५ ॥ मजाः स्तम्भसीमानां क्षोभयेत् पुष्टिमानतः(१) । (वेद्यां भागे?)शालायां निष्कामो मूलकोणतः ॥ २६ ॥ स्थानैर्विचित्ररूपैः स्यात् सिंहकर्णैश्च भूषितः । पञ्चव्यासेन सूत्रेण रेखामस्य ममालिखेत् ॥ २७ ॥ एतद् विमानं ललितं देवदेवस्य कारयेत् ।
विमानम् ॥ संस्थानं सर्वतोभद्रस्येदानीमभिधीयते ॥ २८ ॥ जठरं वाह्यसीमा च तथा भित्त्यन्धकारिका । जडोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥ २९ ॥ तथैव भद्रविस्तारः षड्भागेन समन्ततः । रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥ ३० ॥ मुष्टिप्रमाण?ण विस्तारं कर्तव्यमुदकान्तरम् । विस्ताराद् द्विगुणः स्कन्धस्योच्छायो भागविंशतिः(१) ।। ३१ ।। पञ्चभागसमुत्सेधा जला कार्या सदा बुधैः । मेखलान्तरपत्रं च सार्धभागसमुच्छ्रिनम् । ३२ ॥ १. 'मञ्जर्याः स्तम्भसीमानं क्षोभयन्मुष्टिमानतः' इति पाठः स्यात् ।
"Aho Shrut Gyanam"