SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विमानादिचतुष्पष्टिपासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ११७ भागिको रथविस्तारः कर्णिका चार्धभागिकी । भागपश्चकविस्तारं भद्रं यत् (तत्) प्रकीर्तितम् ॥ ८ ॥ (भूणस्तोवहेस्तस्य?) निर्गमो माय: स्मृतः । भागार्धन विधातव्यः क्षोभणो जलवमनः ॥९॥ कर्णिकां जलमार्ग (च) समसूत्रेण मापयेत् । अथीच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ।। १० ।। विस्ताराद द्विगुणः स्कन्धः सबैस्मिन बुद्धनागरे । ++ ++ पञ्चभागा स्वाज्जास्वसमुच्छितिः ॥ ११ ॥ तिलकानां तथोच्छायो विधातव्यो द्विभागिकः । तिलकस्य शिरोघण्टां चकमुत्रेण मापयेत् ।। १२ ॥ जङ्घामानत्रिभागेन खुरपिण्डी प्रकल्पयेत् । खुरकं वेदिवन्धं च सममूत्रेण मापयेत् ॥ १३ ॥ जङ्गामानत्रिभागेन खुरपिण्डी प्रकल्पयेत् ।। खुरकं वेदिवन्धं च सममूत्रेण मूत्रयेत् ।। १४ ॥ द्वितीयभूमिकोत्सेधं सिंहकर्ण विभूषयेत् । मस्तके घण्टया युक्ता चतु भौगोच्छ्रिता च सा ।। १५ ॥ ततस्तृतीयभून्सेधः पदतुल्यांशवर्जितः ।। चतुर्थी भूमिका कार्या साधेभागत्रयोच्छ्रिता ।। १६ ।। मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला । द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥ १७ ॥ तस्था द्वारं विधातव्यं कपाटद्वयसंयुतम् । (स्यावर्द्धात पाटितं द्वारं तृतीयायां सदा भुवि ॥ १८ ॥ पा(देदो नद्विपदोत्सेधा तवं वेदिमेखला । कैरवाणां दलैयुक्ता कर्तव्या दृष्टिहारिभिः ॥ १९ ॥ वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता । ग्रीवाभागिकोत्सेधा घण्टैकं भागमुच्छिता ॥ २०॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy