________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । भद्रं तदग्रतः कुर्याद् विस्तारेण चतुष्पदम् । भागाधनिर्गमं सम्यग् (दिक्षु) सर्वास्वयं विधिः ।। कर्णस्याः नयेट् गर्भाद वृत्तं तत् पूर्वमालिखेत् । अनुसारेण वितरेदङ्गप्रत्यानिर्गमम् ।। सार्धभागं गजाधारं साब्जपत्रं समेखलम् । कुर्यात् पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ।। भागपादेन कणकं पादोनान्तरपत्रकम् तदर्थं ग्रासहारं च भागाधैं खुरकं तथा ।। खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः । विस्ताराद् द्विगुणश्वायं (स्यादुवकल्पयाधकः१) ॥ तुलोदयो विधातव्यस्त्रयोदशभिरंशकः। विंशत्यंशं तु शिखरं ++ ++श्चतुष्पदम् ।। पादोनभागद्वितयं कुम्भकं तेषु कारयेत् । भागेनैकेन कलशमर्धनान्तरपत्रकम् ॥ पादहीनपदं कार्या मेखलास्प सुशोभना । जङ्घा षड्भागिकोच्छ्राया भागाध ग्रासपट्टिका ।। हीरकं चैकभागेन कर्णस्थं परिकीर्तितम् । मेखलान्तरपत्रं च सार्धभागसमुन्नतम् ।। जडामध्ये तु कर्तव्या स्थकारथकास्तथा (2) । वृत्तस्तम्भैः समकरैसिर्मुक्तावरालकैः ॥ जङ्घा तु संवृता कार्या मल्लच्छाद्यैविभूपिता। जलान्तरेषु रूपाणि कुर्यात् सङ्घाटकैः शुभैः ।। कुर्याद तुलोदयस्यो मिमि(१)भूमिभिरष्टभिः। स्कन्धाष्टांशोऽस्य दूराद्या +++ सपदत्रयम् ।। द्वितीया त्रिपदा प्रोक्ता तृतीया पादवर्जिता । सार्धधशा चतुर्थी च पादोना पञ्चमी ततः ॥
"Aho Shrut Gyanam"