________________
१११
मर्यादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी । भद्रं भागैश्चतुर्भिः स्याद् भागेनैकेन निर्गतम् ॥ कर्णस्तु द्विपदः कार्यों जलमार्गसमन्वितः । द्विपदं पीठमुत्सेधात् सिंहरूपैरधिष्ठितम् ।।
खुरकं च पदार्धन कुर्यात् पीठस्य मध्यतः । कुर्याय + विस्ताराद् द्विगुणं कलयाधिकम् ।। द्विपदं वेदिकावन्धं जया चास्य चतुष्पदम् । मेखलान्तरपत्रं च विदध्याद् भागिकोदयम् ।। त्र्यंशानि कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह । सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥ सिंहरूपसमाक्रान्ते प्रासादे सिंहसंज्ञिते । ऊर्ध्वतः. कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ।। सप्तभागसमुत्सेधा लताभिः पञ्चभिर्युता । ग्रीवोच्छ्रायस्तु कर्तव्यः पदं पादेन वर्जितम् ॥ अण्डकं तु पदोत्सेधं रेखायां च द्विनिस्मृतम् । पादोनभागमुच्छ्रायश्चन्द्रिकायाः प्रकीर्तितः ।। द्विपदं कलशं कुर्याद बीजपूरकसंयुतम् । (यदामंः) कारयेत् स स्यादजेयः पुरुषो घुवम् ।। न्यवहारे नृपकुले सङ्ग्रामे शक्रसंसदि ।।
सिंहः ।। इदानी पद्मकं ब्रूमः प्रासादं पद्मसन्निभम् ॥ यः (केसान् ?) कारयत्येनं स कामाल्लभतेऽखिलान् । चतुरश्रीकृते क्षेत्रे + + दिक्षु विदिक्षु वा ॥ भ्यस्येत् पृथक पृथक् सूत्राण्यथ वृत्तं प्रसाधयेत् । (दिधिसूत्रयोर्मध्ये चतुरश्रं तु रोमकम् ॥
१, 'य इमम्' इति वा 'यः सिंहम् ' इति वा स्यात् । २. 'पुमाम् ' इति लाए।
"Aho Shrut Gyanam"