________________
समराङ्गणसूत्रधारे गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् । प्रासादः सर्वदेवायं गरुडध्वजवल्लभः ।। द्वाविंशतिपदं क्षेत्र (भक्ताल्या समायतम ?) 1 पूर्वापरेण दशभिर्भागभूयो विभाजितम् ।। कुर्वीत मध्ये प्रासादं तस्मि शतपदं बुधः । द्विपदं भित्तिविस्तारं कर्णाश्चापि द्विभागिकान् ।। उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः । अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ।। शेषेण षट्पदौ++सहसायामविस्तृती (?) । गर्भः षोडशभिभोगेभित्तिः स्यात पदमेतयोः । श्रीवत्सहंसरुचकवर्धमानेषु कोऽपि यः । रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥ तस्य पक्षौ विधातन्यौ निर्गतौ वामदक्षिणम् । एवमेते त्रयो गभी गरुडे परिकीर्तिताः ।।
गरुडः ॥ प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे । चतुःषष्टिपदं क्षेत्रं विधाय विभजेद् गजम् ।। ततः सीमार्धमत्रेण पृष्ठतो वृत्तमालिखेत् । गर्भ कुयोत् तदर्धेन + + रेखाकृति त + || ऊध्वंप्रमाणमधुना गजस्य स्पष्टमुच्यते ।। स्तम्भाश्चतुष्पदोच्छायाः कायोः कोणचतुष्टये ।। जवेयमस्य निर्दिष्टा(खल्लस्तम्भान्तरं?) भवेत् । पट्टिकान्तरपत्राभ्यां समभागेन मेखला ॥ अग्रतः शूरसेनं स्यात् पृष्ठतस्तु गजाकृतिः ।
गजः । भासादस्या(धुना) लक्ष्म सिंहसंज्ञस्य कथ्यते ।। चतुरश्रं समं क्षेत्रं विभनन्दने यथा । गर्भो भागेश्चतुर्भिः स्यात् क(श्चन्द)भित्तिस्तु भागिकी ।।
"Aho Shrut Gyanam"