SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविंशका नाम सप्तपञ्चाशोऽध्यायः । तावत् स्वर्गे वसेड्रीमान यावदिन्द्राचतुर्दश । रुचकाख्यमथ ब्रूमः प्रासादं पुरभूषणम् ॥ आदी समस्त वस्तूनां कल्पितं पद्मजन्मना । चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजिते पदैः ॥ भागमेकं भवेद् भित्तिस्तस्य गर्भः पदद्वयम् । वेदीबन्धं तथा जङ्गां मेखलामूर्ध्वमेखलाम् ॥ मानमूर्ध्वमधश्वास्य श्रीवत्सस्येव कारयेत् । कोणेषु स्तम्भकाः कार्या (हाइ ही इसा) समन्विता ॥ मध्ये तु रथिका कार्या चारकर्मविभूषिता । चतुर्भीममिदं कार्य (स्तत्रैवसटी) कर्मणा ।। हंसः ॥ युक्तं मध्ये तु रथिका प्रतिभूमि विधीयते । रुचकः कारितो येन प्रासादः शुभवास्तुनि || कुलानां वारितं तेन शतमात्मा तथोद्धृतः। १. 'हीरशीर्ष' इति स्यात् । वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ।। तस्याष्टगुणमैश्वर्यं भवेद् यः कारयेद् यदि । चतुरश्रं समं क्षेत्रं भाजयेद् दशभिः पदैः || ततो भागचतुष्केन कर्तव्यो मध्यमो रथः । एकैकेन विभागेन द्वौ रथौ वामदक्षिणी || (कर्णास्तु पदा कार्या वर्जं चारिधर्मभिः) । भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् || भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम् । विस्तारार्धेन गर्भः स्याद यच्छेषं तेन भित्तयः || ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् । वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥ "Aho Shrut Gyanam" रुचकः ॥ वर्षमानः ॥ १०९
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy