________________
१०८
समराङ्गणसूत्रधारे
रेखा + + विधाव्यं + + न्यूनाधिकमण्डकम् । सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥ पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि (काम् ) | द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् || श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् | कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥
श्रीवत्सः ॥
अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् | चतुरश्रीकृते क्षेत्रे चतुभिर्विभजेत् पदैः || भागैवतुर्भिर्गर्भः स्याद् मित्तिर्द्वादशभागिकी | भागद्वयेन भद्राणि ततश्च परिकल्पयेत् || चतुर्भागेन निष्कामस्तेषां गर्भस्य शस्यते । भागस्य षोडशांशेन कुर्याद् नी ( र ? रा) न्तराणि च || पीठिका वेदिकावन्धो जङ्घा मेखलया सह । ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् || मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः । उपरि व्यालहाराश्च पीठमेवं विभूषयेत् ॥ त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः । नागरं द्रावि (?) चेति कर्णे कर्णे निवेशयेत् ॥ भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च । रथिके रथिका (?) कुर्याद् (विन्य १) नागरकर्मणा || विस्तारार्धेन वेदी स्याद् ग्रीवा चास्य पदार्धिका | अण्डकं पदिकं कार्यं कङ्कती फलसन्निभम् ॥ + चण्डिका (चार्धेन?) कलशः स्यात् पदोच्छ्रितः । यथा विराजते हंसो (हंसोमाशिरसि) स्थितः || प्रासादोऽपि तथा हंसः पुरमध्ये विराजते । हंसाख्यमेनं प्रासादं कारयेद् यो (भरोत्तमाः) ॥
१. ' च पदार्थेन ' इति स्यात् । २. ' नरोत्तमः ' इति स्यात् !
"Aho Shrut Gyanam"