________________
मेर्वादिविंशिका नाम सप्तपश्चाशोऽध्यायः । १०५ हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः । ज्येष्ठो(अष्टादश भागान् स्यान्मध्यमस्तु चतुर्दश ॥ कनीयान् दश भागा(न्) (य?स्या)त् सदस्तस्याभिधीयते । चतुरश्रीकृते क्षेत्रे भक्तेष्टादशभिः पदैः ॥ कोष्ठकानां विधातव्यं चतुर्विंशं शतत्रयम् । भागषट्त्रिंशता कुयोन्मध्ये गभेगृहं शुभम् ॥ बाह्यभित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम् । पृथक् पृथक् स्याद् द्विपदविस्तारं परिमाणतः ॥ चतुर्भागायता शाला भागेनैकेन निर्गता 1 शालाया भूषणं भद्रं विधायैतत् पदद्वयम् ॥ तत्पार्थद्वितये कुर्यात् त्वधिके भागिके बुधः । वार्यन्तराणि कुर्वीत विश्वष्ट चतसृष्वपि ॥ वार्यन्तरानन्तरं तु भागद्वितयसंमितान् । अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥ कोणे द्विभागिकैः कुर्याद रथानामांससंमिता (१) । कोणे रथान् परित्यज्य शेष कुर्याद् यथोदितम् ॥ मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ चतुर्भागा भवेच्छाला भागेनैकेन निर्गता। एकभागप्रमाणानि पार्चे वार्यन्तराणि च ॥ सेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम् । रथक(ोन्यःणे य)थावच्च सलिलान्तरभूषणम् ॥ भागाध क्षोभणा कार्या चतुष्कोणे व्यवस्थिता । सार्धभागोन्मितान् कुर्यात् कर्णप्राग्ग्रीवकान् शुभान् । धार्यन्तराणा(+प्रोक्ता भूषश्रोभि?) कनीयसि । प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्य(वैते)॥ ..'मा प्रोका भूषणभी: ' इति स्यात् ।
-
"Aho Shrut Gyanam'