________________
समराङ्गणसूत्रधारे ऐन्धादिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत् । शालान्तरेषु कुर्वीत कोणानष्टौ यथाक्रमम् ।। कोणात् कोणं नयेत् सूत्रं त्यक्ता शालाद्वयं मुहुः । विदिश्वष्टसु सूत्राग्रं पद्मपत्रवदानयेत् ।। कोणाश्च रथिकाचैव भवन्त्येवं सुलक्षणाः । चतुरश्रा भवन्त्यष्टी शाला भागद्वयायताः।। व्यंशानि कर्णभद्राणि पद्मपत्रनिभानि च । ऊर्ध्वमानं भवत्यस्य द्विगुणं (हालमा + नात् ?) ।। विंशत्या विभजेचं तत्राष्टाष्टांशस्तुलोदयः। शेषां तु मञ्जरी कुर्यादास्कन्धावधि बुद्धिमान् ॥ विस्तारपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत् । त्रिपदं वेदिकावन्ध (सुएकेण?)समन्वितम् ।। जङ्घांशल (ब)नां कुर्याचतुर्भागसमुच्छ्रिताम् । मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥ द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः । अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥ स्कन्धः षड्भागविस्तारः कार्यों वृत्तः सुशोभना । समालिखेदेषु कोशं विस्ताराद् त्रिगुणात्मना ॥ सूत्रेण येन वा स्कन्धो भवेत् पड्भागविस्तृतः । हस्तैः स्यात् पञ्चविंशत्या ज्येष्ठः पोडशभिः परः ॥ कनीयान स्वस्तिको ज्ञेयः करैदशभिः पुनः । भागपदकसमुच्छाया जङ्घा ज्येष्ठस्य कीर्तिता ॥ मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात् । स्वस्तिके कारिते स्वस्ति सर्वलोकस्य जायते ॥ . विशेषतश्च भूपानां कर्तुश्च स्वात् समीहितम् ।
स्वस्तिकम् । एककोणमय बमा प्रासादं स्यात् स च विधा।
"Aho Shrut Gyanam"