________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् । द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ।। चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् । भागेनैकेन निष्क्रान्तं प्राग्रीवं चास्य शोभनम् ।। मलकर्णस्य पदिको कर्तव्यों पार्श्वगौ रथौ। पडगुलं त्र्यमुलं वा चतुरङ्गुलमेव च ।। जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी । गर्भश्चतुर्भिभौगैः स्याच्छेषं भित्त्यन्धकारिका ।। द्विपदं कन्दभद्रं स्यात् पदपादेन निर्गतम् । पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥ द्वैगुण्यं मूर्धविस्तारार्धे भ ++ + वेदिका । रेखामस्य तथा कुयोत् केलासस्य यथोदिता ॥ भूमयः षड् विधातव्या द्वादशाण्डाः पृथक् पृथक् । नन्दयत्येष कर्तारमिह लोके परे च यत् ।। नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः ।
नन्दनः ।। अ(था)भिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ।। देवासुरगणैर्वन्धं यक्षसिद्धमहोरगैः।। ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य (यदेशः? यादृशः) ।। याप्रमाणं च तत सम्यगिह कथ्यते । चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके । सूत्रपातं प्रकुर्वीत कर्णतिर्यमुखायतम् । ततः सीमार्धसूत्रेण वृत्तमालिख्य निश्चितम् ॥ द्वात्रिंशता समन्तात्त)देखाभिर्विभजेत् ततः । वृत्तं (तथोमुघाताक्षि दिदि)स्थाभिरङ्कयेत् ॥ दिकर्णसूत्रयोर्मध्यं (ततो सेव?)त्रयं बुधः । कुर्याद द्वात्रिंशदेवं स्युभोंगास्तुल्यप्रमाणका: ॥ १. 'दिग्विदिक्यामिः' इति स्यात् ।
"Aho Shrut Gyanam"