________________
.
"
मेदिविंशिका नाम सप्तपञ्चाशोऽध्यायः । चन्द्रिकार्धपदेन स्यात् सार्धं तु कलशः पदम् । मञ्जरीः पद्मपत्राग्रे तुल्याः सवत्र कारयेत् ॥ अधस्ताद भद्रपीठं तु वास्तु(वाया,देन शोभनम् । यः कुर्यात् सर्वतोभद्रं सर्वलक्षणसंयुतम् ।। जयश्रीर्जायते तस्य + + + ++ + + + |
सर्वतोभद्रः ।। ब्रूमो('विमानं दस्या सादम्याथ?) लक्षणम् ॥ गणगन्धर्वजुष्टस्य वल्लभस्य दिनस्पतेः। चतुरश्रीकृते क्षेत्रे शतथा प्रविभाजिते । विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भदैश्चतुर्भिस्तं कुर्यात् कर्णप्राग्नीवस्तिथा ।। विस्तारा भवेद गर्भो गच्छेतं तेन भित्तयः । ("त्रिंशद्वा)मतो ज्येष्ठो मध्यमः पञ्चविंशतिः ।। कनीयांस्तु विधातव्यः पोडशाप्येकविंशतिः । जातिशुद्धो भवेदेको मन्जरीभिस्तथापरः ।। मिश्रकस्य विमानस्य वैविध्यमिति कीर्तितम् । (ज्येष्ठो मिश्रको निर्मागेः सर्वः कैलास द्रवान् ?) । मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः । कनीयांश्च विधातव्यो मञ्जरीमिरलङ्कृतः ।। कर्णप्राग्नीवविस्तारः कर्तव्यो भागसम्मितः । भागाचे क्षोभणा कायो यच्छेपं तच्च कर्णवत् ।। भागस्यार्धेन कुर्वीत तस्माद् भद्रस्य निर्गमम् । मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥ मूलसूत्रानुसारेण पार्श्वयोः पदिको रथौ । ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ।। .. 'विमानसंज्ञस्य प्रासादस्थाय' इति पाठ्यं स्यात् । २. त्रिंशत्पदो' इति स्यात् ।
"Aho Shrut Gyanam"