________________
१००
समराङ्गणसूत्रधारे
भागषट्केन भद्रं स्यात् सार्धभागविनिर्गतम् । कर्णं द्विभागिकं कुर्यात् + लमाग्रसमन्वितम् पदपादस्य पादेन विस्तारो जलवर्त्मनः । यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥ ( स सं ) मोददं स्यात् तद् वस्तु धनधान्यसुखावहम् | चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् || भद्रस्यैवाग्रतो भद्रं तच्छा?च्च) बाह्योदरं विदुः । विस्ताराद द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥ कुम्भकं भागिकं कुर्याद् भागार्थेन मसूरकम् । भागपादेन कुर्वीत ततश्चान्तरपत्रकम् || मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् । चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता ॥ पदं पादविहीनं स्यात् (कुलं ? ) स्थानेषु हीरकम् । मेखलान्तरपत्रं च पदार्धेन समु (घृच्छ्र) तम् ॥ त्रिभागविनतं कुर्याद् भागे चन्द्रावलोकनम् । ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात् पदद्वयम् || हीरग्रहणशीर्षं च पदेनैकेन कारयेत् । भागेनैकेन कुर्वीत पट्टपिण्डं विचक्षणः || द्विपदं छाद्यविस्तारं तदर्धेन ( तुलस्वनम: ? ) | जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥ जङ्गोत्सेधश्च कर्णश्च++++ यथा भवेत् । कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् || द्वितीया द्विपदोच्छ्राया रथिका परिकीर्तिता । उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥ पदद्वयं द्वितीयस्य तत एव समुन्नतिः । शृङ्गाणां स्यान्मिथः क्षेपो भागं ( प + 2 ) यथोत्तरम् ॥ भागान् सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं + षट् । अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ||
"Aho Shrut Gyanam"