________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । कुर्याद ग्रीवाण्डकलशं चन्द्रिकाभिः समं बुधः । उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ।। स्तम्भसूत्रेण कतैव्यं नष्टशृङ्गं विचक्षणः । कूटानि पञ्च कुर्वीत यथावत् प्रथमक्षितौ ॥ (प्रात्री)णि भूमौ द्वितीयायां तृतीयायां तु कूटकम् । कुर्यात् तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥ कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ्क नव । शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥ स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि । विस्तारात् त्रिपदा सा स्यात् सार्धभागत्रयोनता। भागं सपादं कुर्वीत ग्रीवांसकलशाण्डकम् । द्वितीयशृङ्गस्योध स्यादुरोमञ्जरिकापरा ॥ विस्तीर्णा चतुरो भागान् कार्या पश्चपदोच्छ्रिता । स्कन्धावरोहणग्रीवाचन्द्रिकाकलशैः सह ॥ एतेषां तु समुच्छ्रायः सार्धभागं विधीयते । उरःशिखरकाण्यष्टावेवं कुर्याचतुर्दिशम् ॥ तृतीयकर्णशृङ्गस्य स्यादूचं मूलमञ्जरी । सा भवेत् षट्पदोच्छ्राया पदपञ्चकविस्तृता । त्रिपदः स्कन्धविस्तारो दिक्षु स्याञ्चतसृष्वपि । कूटैश्च विविधन्यासैरलकुर्वीत मञ्जरीम् ।। अर्धभागोच्छ्रिता ग्रीवा सा(शद्वयविस्तृता। अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥ कपरं चार्धभागेन कलशः पदमुच्छ्रितः । नवभिः शिखरेयुक्तः कर्तव्योऽयं समन्ततः ॥ वैदीवन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत् । कुर्यात् तेन विभागेन कलशानपि शोभनान् । मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत् । श्रण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च च ॥
"Aho Shrut Gyanam