SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे एवंविधं विधत्ते यः प्रासादं पृथिवीजयम् । पृथ्वीं विजयते कृत्स्नां निर्जितारिः स पार्थिवः ।। अन्योऽपि कश्चिद् यः कुर्याद (वर्णाच्छत?) भक्तिमानिमम् । सोऽपि सौख्यमवामोति पश्चादन्ते परं पदम् ।। पृथिवीजयः ।। अतःपरं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् । अमरैर्वन्दितं सर्वैस्तथा चारसां गणैः ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजित । भद्रे पञ्च पदानि स्थुः कोणे कार्य पदत्रयम् ।। गर्भ षोडशभिर्भागस्तस्य कुर्याद विचक्षणः । कतेव्या पदविंशत्या कन्दभित्तिः समन्ततः ।। प्रासादस्यास्य कतव्या रपणी तु पदद्वयम् । पाटिदि का वाद्यभित्तिः स्याद् हिपदो भद्रनिर्गमः ॥ जलान्तरं तु भागस्तु + +++ गवाक्षकाः । भद्राणां मध्यतः पञ्च (स?)प्रकाशाः (स?सु)मनोरमाः ।। वाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् । तस्योपरिष्टात् कुर्वीत माल्युच्छायं सुशोभनम् ।। ऊर्ध्वमानमथ ब्रमः प्रासादे क्षितिभूषणे । क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ।। अस्योच्छ्रायस्तता साध(पदाः स्यात् !)पञ्चविंशतिः । एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः॥ रेखा पञ्चदशांशा स्यात् स्कन्धशीर्ष पदार्थकम् । वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥ जङ्गा षड्भागिकोच्छ्राया भागार्ध (पेचरा)शुभाः। मेखलान्तरपत्रं च पदेनैकेन कारयेत् ।। कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता । तर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ।। 1. 'वर्णानाम्' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy