SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९६ समराङ्गणसूत्रधारे चतुरश्रीकृते क्षेत्रे (विभागाव ) विभाजिते । चतुर्भागा भवेच्छाला सपा (दै ? दां) शविनिर्गता || कर्णशृङ्गद्वयं कार्य प्रत्येकं भागविस्तृतम् । पादोनपदनिष्क्रान्तं ++++++++ भागैश्चतुर्भिर्गर्भः स्याद् भित्तिः कार्या तु भागिका भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी || भागद्वयेन कुर्वीत दिकत्रयेऽस्य चतुष्किकाम् | पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया || एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः । मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥ ऊर्ध्वतो यत् प्रमाणं स्यात् तदस्येहाभिधीयते । अधस्तान्नागपीठ: स्यात् प्रमाणेन 'पदद्वयम् ॥ हीरकं भागपादेन तस्य मध्ये निवेशयेत् । विस्ताराट् द्विगुणं चोर्ध्वमानं भागार्थसंयुतम् ॥ ऊर्ध्वमानस्य मध्ये स्यात् षट्पदानिबर्हणादयः (१) । वेदवन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥ ततो हीरकसंयुक्ता जङ्घा पदचतुष्टया | मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥ भागद्वयेन कर्तव्यं वेदिका राजसेरका । चन्द्रावलोकं भागेन विदधीत विचक्षणः || कुर्यात् पदस्य पादेन तत्रैवासनपट्टकम् | पदद्वयेन सांशेन स्तम्भमूर्ध्व निवेशयेत् ॥ अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके । अर्धभागेन प चच्छाद्यं सार्धपदायतम् ॥ (द्वे सन्त पठिका ) कार्या ततो भागार्धसंमिता । ऊर्ध्वमन्तरपत्रस्य (कथमोथ ? ) यथाक्रमम् ॥ 'मागाष्टक' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy