SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविशिंका नाम सप्तपश्चाशोऽध्यायः । विस्तारेण पदान्यूज़ भवेद द्वादशभागिका । स्कन्ध(पट्टादिः)विस्तारो ग्रीवा पादोनभागिका ॥ अण्डकं सार्धभागेन चन्द्रिका भागमुच्छ्रिता । द्विपदः कलशोच्छ्रायस्तद्वद्(द्व?)बीजपूरकम् । विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः । उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ।। कार्या सप्तलतोपेता प्रशस्ता मूलमश्वरी । ग्रीवास्य भागिका भागद्वयमामलसारकम् ॥ चन्द्रिका भागमेकं स्यात् त्रिपदा कलशोच्छितिः । उक्ता या मूलमञ्जयः प्राक् प्रासादेषु तास्वियम् ॥ कार्ये माहामाकारा(१) चारुकर्मोपशोभिता। बाह्यभित्तिसमायुक्तं प्रासादस्य चतुर्दिशम् ।। मल्लच्छाचं प्रकुर्वीत यथाशोभं विचक्षणः । सर्वतश्चारुरूपायैर्विचित्रैः शुभलक्षणैः ।। विभूषयेत् सिंहकर्णैर्मल्लच्छाचं मनोहरैः । वलभीत्रयसंयुक्तं कर्णकूटचतुष्टयम् ।। यथाशोभं विधातव्यं प्रासादेऽस्मिस्त्रिविष्टपे । वास्तौ शतपदे यानि ममोण्युक्तानि सर्वतः ॥ उत्सृज्य तानि यत्नेन परिकर्मात्र कारयेत् । प्रासादं कारयित्वैनमुक्तरूपं त्रिविष्टपम् ।। लभेतेह यशो राज्यं परत्रानन्त्यमेव च । कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूपणम् ।। वसेत् त्रिविष्टपे तावद् यावदाभूतसंप्लवम् । तस्यान्ते तु परे तत्त्वे लयमामोति मानवः ।। त्रिविष्टपः । अथाभिधीयते सम्यक् प्रासादः पृथिवीजयः। किन्नरासुरयक्षायुवन्दितः सुरसत्तमैः ।। "Aho Shrut Gyanam".
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy