________________
समराङ्गणसूत्रधारे द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः । (चतुद्विशतिं भ्रमन्ती स्य?)++पञ्चपदायता ॥ वलभीः कारयेत् तद्वद् (द्वि?दिग्) भागेषु चतुर्पपि । प्रत्यङ्गं द्विपदं कर्णशालावलभिकान्तरे ॥ तञ्च द्विपदमुद्दिष्टं जलमार्गे पदाधिके । पदैादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥ प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान् । मू(लाल)प्रासादगर्भस्य कुर्याद द्वारचतुष्टयम् ।। विज्ञेयेयं) तच्च दिग्भद्रे सूत्रमार्गानुसारतः । जलान्तराणि कुर्वीत प्रत्यङ्गे पार्श्वयोरपि ॥ बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम् । एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥ अर्ध्वमानमथ(स्त्रिंशा)तत्र पीठं चतुष्पदम् । मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ।। अतः पदैः स्याद् विस्ताराद् द्विगुणा शिखरोन्नतिः । तस्याश्च मध्ये कुर्वीत षोडशशि तुलोदयम् ॥ तुलोदयस्य मध्ये द्वे वेदीवन्धं सपञ्चकाम् (?) । जसा चाष्टपदा कार्या मध्ये चासनपट्टिका ॥ एषा (त?मन्तर)पत्रं च कर्तव्यं त्रिपदोच्छ्रितम् । तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥ चतुष्पदेषु कर्णेषु कुटं पञ्चपदोदयम् । ग्रीवा पदस्य पादो(नाना)त्रिभिः पादैस्तथाण्डकम् ॥ चन्द्रिकाकलशोत्सेधं पादेनकेन कल्पयेत् । प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः ॥ मध्ये तु वलभीशृङ्गमुन्नतं सप्तभिः पदैः । ऊर्वतस्तिलकानां स्यादुरोमञ्जरिका दश ॥ २. 'चतुर्दिशं अमन्ती स्यात् तस्याः' इत्येवलातीयं पाठ्यं स्यात ।
ANO Shrutyana