________________
मेर्वादिविंशिका नाम सप्तपश्चाशोऽध्यायः । (संद्रस्यादितिक्तयनि?) सिंहक्रान्तानि कारयेत् । विस्तारं मूलमञ्जर्याः कुर्यात् एड्भागसंमितम् ॥ सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत् । भागार्धन भवेद (भाग?)भागिकोच्छ्रायमण्डकम् ।। चण्डिकामर्धभागेन कलशं सार्धभागिकम् । कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥ युक्तं भूमीभिरष्टाभिर्मञ्जरीभिरलङ्कृतम् । सिंहकर्णैर्विचित्रैश्च भद्राण्यस्य विभूषयेत् ॥ कर्तव्यः स्कन्धविस्तारस्तस्मिन् पदचतुष्टयम् । विदधीत समालेखमूत्रेण त्रिगुणेन च । एवं ++++++ कैलासं विदधाति यः । विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥ कामानवाप्य विविधान् कीर्तिमारोग्यमेव च । भुक्त्वा भोगांश्च कैलासे कल्पान्ते यावदीप्सितम् ।। शार्व पदमवामोति शान्तं ध्रुवमनामयम् ।
. कैलासः ।
त्रिविष्टपमथ ब्रूमः प्रासादममरप्रियम् ।। सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः । चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते । षडभागविस्तृता शाला स्याचतुर्भागनिर्गमा । चतु(रंशश्श)ती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥ आशात्रयस्थितैर्भद्रैः सार्धमेवं प्रजायते । कुर्याद् गर्भगृहाण्यष्टौ (दिक्षुष्वास्वपि?) तानि तु ।। कोणे तु पोडशांशानि तन्मध्ये चतुरोंऽशकान (?) । भित्तिादशाभिर्भागगर्माणामिति निर्णयः ।। चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः । पदैः षोडशभिस्तस्य मध्ये गर्भ प्रकल्पयेत् ॥ १. 'दिश्वष्टास्वपि' इति स्यात् ।।
"Aho Shrut Gyanam