________________
समराङ्गणसूत्रधारे चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते । शाला षड्भागविस्तारा कर्तव्या भागनिर्गमा ॥ (कलात्रिभागिका कुर्यात् सलिलान्तरसंयुतान् !)। (आरभ्य ब्रह्मणः स्थानात् समा इव पादद्वयम् ?) । भ्रमयित्वा समं वृत्तं (गर्भगर्भमंश) प्रकल्पयेत् । तथा भित्तिर्विधातव्या समन्तादर्धभागिका ॥ भागिका बाह्यभित्तिः स्यात् (कार्या स्याद्?) भद्रभूषिता । अन्तराले तु सर्वत्र विदध्यादन्धकारिकाम् ॥ अलिन्दकाश्चतुर्भागाः कर्तव्या दिक्त्रये बुधैः । भागद्वयेन निष्क्रान्ताः सर्वतः शुभलक्षणाः ॥ (चतुर्थोकां?) विधातव्यास्तेषु स्तम्भद्वयान्विताः । मुखे तु मण्डपः कार्यः स्तम्भपङ्क्तिविराजितः ॥ अथोर्ध्वमानं वक्ष्यामः कैलासस्य यथास्थितम् । पीठं तस्य पदे द्वे तु कर्तव्यं गणभूषितम् ।। पदस्यान कर्तव्यः खुरकस्तु खुरादिति (?) । तवं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः ॥ एकेन कुम्भकः कार्यो भागेन समवर्जितः । मसूरकस्तु भागेन पादोनेन विधीयते ॥ कार्य पदस्य पादेन ततश्चान्तरपत्रकम् । मेखलार्धपदेन स्याञ्चन्द्रशालाविभूषिता ॥ जङ्घा तर्ध्वं कर्तृव्या सार्धं पदचतुष्टयम् । भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥ कर्णशृङ्गं विभिआँगैः कुर्यात् सकलशाण्डकम् । तवें द्विपदानि स्युः कूटान्युच्छ्रायमानतः ॥ पूर्वोक्तानाममीषां च प्रक्षेपः स्यात पदां(शतः)। चतुर्थी कूटविस्तारं संविभज्य पदद्वये ।। १. 'चनुष्किका' इति स्यात् । ho shrut Gyanam"